(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.21. अध्यायः 021
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण पुरोहितवाक्येऽनुमोदिते कर्णेन तदाक्षेपपूर्वकं सङ्केतकालस्य सशेषतया पुनर्वनवासादिना तत्समापने राज्यदानोक्तिः ॥ 1 ॥
भीष्मेण कर्णाधिक्षेपः ॥ 2 ॥
धृतराष्ट्रेण पाण्डवान्प्रति स्वेन सञ्जयप्रेषणकथनपूर्वकं पुरोहितस्य प्रतियापनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-21-0x(3417)(32335)
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः।
संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥ 5-21-1(32336)
दिष्ट्या कुशलिनः सर्वे सह दामोदरेण ते।
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥ 5-21-2(32337)
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः ।
दिष्टा न युद्धमनसः पाण्डवाः सह बान्धवैः ॥ 5-21-3(32338)
भवता सत्यमुक्तं तु सर्वमेतन्न संशयः।
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥ 5-21-4(32339)
असंशयं क्सेशितास्ते वने चेह च पाण्डवाः।
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥ 5-21-5(32340)
किरीटि बलवान्पार्थः कृतास्त्रश्च महारथः ।
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ॥ 5-21-6(32341)
अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः ।
त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥ 5-21-7(32342)
वैशम्पायन उवाच। 5-21-8x(3418)
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना।
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ॥ 5-21-8(32343)
न तत्राविदितं ब्रह्मँल्लोके भूतेन केनचित् ।
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ॥ 5-21-9(32344)
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा ।
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥ 5-21-10(32345)
स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम्।
बलमाश्रित्य मत्स्यानां पाञ्चालानां च मूर्खवत् ॥ 5-21-11(32346)
दुर्योधनो भयाद्विद्वन्न दद्यात्पादमन्ततः।
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥ 5-21-12(32347)
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः ।
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥ 5-21-13(32348)
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः ।
अधार्मिकीं तु मा बुद्धिं मौर्ख्यात्कुर्वन्तु केवलात् ॥ 5-21-14(32349)
अथ ते धर्ममुत्सृत्य युद्धमिच्छन्ति पाण्डवाः।
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ॥ 5-21-15(32350)
भीष्म उवाच। 5-21-16x(3419)
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि।
एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ॥ 5-21-17a` विराटनगरे धीरः किं त्वं तत्रैव नागतः'।
बहुशो जीयमानस्य कर्म दृष्टं तदैव ते ॥ 5-21-16(32351)
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्।
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्। 5-21-18(32352)
` दुर्योधनः सहामात्यो विनङ्क्ष्यति न संशयः ॥ 5-21-19(32353)
वैशम्पायन उवाच।
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च।
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥ 5-21-19x(3420)
अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत्।
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥ 5-21-20(32354)
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् ।
स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् ॥ 5-21-21(32355)
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् ।
सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ॥ ॥ 5-21-22(32356)

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकविंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-21-8 धृष्टं धर्षणायुक्तं यथा स्यात्तथा ॥ 8 ।


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.